『बालमोदिनी』のカバーアート

बालमोदिनी

बालमोदिनी

著者: सम्भाषणसन्देशः
無料で聴く

このコンテンツについて

सम्भाषणसन्देशः इति संस्कृतमासिकपत्रिका (https://sambhashanasandesha.in) । एतस्यां पत्रिकायां प्रकाशिताः लेखाः, कथाः, बालकथाः, वार्ताः इत्यादिकं सर्वम् अपि सरलसंस्कृतेन एव प्रकाश्यते । तत्रत्याः “बालमोदिनी”नामिकाः बालकथाः अत्र प्रसार्यन्ते । अतः अस्याः शृङ्खलायाः नाम अपि “बालमोदिनी” एव । लघु गात्रं, सरला भाषा च कथानां विशेषः । प्रत्येकं कथा काञ्चित् नीतिं बोधयति । बालकथाः आबालवृद्धं सर्वेषां प्रियाः । संस्कृतेन ताः श्रोतुम् उपलब्धाः भवन्तु इति एषः प्रयत्नः श्रोतृभ्यः अवश्यं रोचेत इति विश्वासः । संस्कृतक्षेत्रे संस्कृतेन पॉड्कास्ट् क्रियमाणाः एताः प्रप्रथमाः कथाः इति सगौरवम् उद्घोष्यते । Sambhashana Sandesha is a Sanskrit monthly magazine (https://sambhashanasandesha.in). The articles, stories, children's stories, news, and other content published in this magazine are all presented in simple Sanskrit. Among these, the children's stories titled “Balamodini” are featured. The series is named “Balamodini” as well. The hallmark of these stories is their short length and simple language. Each story imparts a specific moral lesson. Children’s stories are cherished by everyone, young and old alike. It is believed that listeners will appreciate this effort to make these stories available in Sanskrit. These are the first stories to be podcasted in the Sanskrit language within this field.© 2025 सम्भाषणसन्देशः スピリチュアリティ ヒンズー教 文学・フィクション
エピソード
  • यथा भावः तथा फलम्
    2025/07/14

    कस्मिंश्चित् कुटुम्बे उभौ भ्रातरौ आस्ताम् । तयोः पिता मध्यपानं कृत्वा गृहे सर्वदा कोलाहलं करोति स्म । एतत् दृष्ट्वा तयोः अन्यतरः अचिन्तयत् यत् मया स्वीये जीवने एवं न भवितव्यमिति । अतः सः सर्वाः बाधाः अविगणय्य अध्ययने निरतः अभवत् । उच्चपदवीं च प्राप्तवान् । किन्तु अन्यः भ्राता गृहस्य कलहपूर्णेन वातावरणेन अध्ययने अनासक्तः जातः । अनुचितेषु कार्येषु प्रवृत्तः चौर्यस्य कारणेन कारागारे प्रविष्टः । एकम् एव वातावरणं किन्तु फलं भिन्नम् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a certain family, there were two brothers. Their father, being an alcoholic, constantly created chaos at home. Observing this, one brother resolved that he would not let his life take a similar path. Despite all difficulties, he dedicated himself to his studies and eventually attained a high position. However, the other brother, influenced by the turmoil in the household, lost interest in education and engaged in wrongful activities. His involvement in theft led to imprisonment. Though both grew up in the same environment, their outcomes were entirely different.

    続きを読む 一部表示
    3 分
  • सर्वे भवन्तु सुखिनः
    2025/07/13

    सम्राजः अशोकस्य जन्मदिनम् आचर्यमाणम् आसीत् । तस्मिन् महोत्सवे बहवः अधीनराजाः स्वस्वराज्यस्य प्रगतिं गर्वेण निवेदितवन्तः। केचन करशुल्कवृद्ध्या, केचन शत्रुविजयेन, केचन कर्मकराणां वेतनकर्षणेन अधिकं धनं सञ्चितवन्तः इति गर्वेन अवदन् । केवलं मगधराजः विनयेन अशोकं प्रति अवदत् – "मम कोषे गतवर्षस्य अपेक्षया अर्धम् अपि धनं नास्ति । मया कर्मकराणां सुखाय, प्रजानां हिताय, चिकित्सालयानां, कूपानां, वसतिशालानां, पाठशालानां च निर्माणं कृतम् । प्रजाः पुत्राः इव । तेषां सुखमेव प्रमुखम्"। एतत् श्रुत्वा सम्राट् अशोकः हृष्टः सन् तम् आलिङ्ग्य तस्मै लक्षं सुवर्णनाणकानि दत्त्वा सम्मानितवान् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    During Emperor Ashoka’s birthday celebration, subordinate kings proudly presented their kingdom’s progress. Many subordinate kings proudly reported the progress of their kingdoms—some boasting of increased tax revenues, others of military victories, and some of wealth gained by reducing workers' wages. However, the King of Magadha humbly revealed his treasury had diminished as he prioritized the well-being of his people. Impressed, Ashoka embraced him and honored him with a lavish reward.

    続きを読む 一部表示
    6 分
  • शङ्करः करुणाकरः
    2025/07/12

    भगीरथप्रयत्नं गङ्गावतरणकथां च वयं जानीमः । दक्षिणे भारते शङ्करभक्तः सुकेशी नामा राजा तपसा शङ्करं तोषयामास । तेन गङ्गायाः दक्षिणदेशे तीर्थरूपेण आगमनं प्रार्थितम् । शङ्करः एकं फलं दत्त्वा गुप्तरूपेण गङ्गायाः आगमनं कथितवान् । तस्य आराधनाय विशेषविधिं च दर्शितवान् । तस्मात् दिव्यं फलं नारिकेलरूपेण, गङ्गाजलेन पूर्णं, पावनतायाः प्रतीकम् अभवत्।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    We are familiar with Bhagiratha's efforts and the tale of the Ganga's descent to Earth. In southern India, there was a devout king named Sukeshi, who, through intense penance, pleased Lord Shankara. The king prayed for the sacred arrival of the Ganga in the southern region as a holy pilgrimage site. Lord Shankara, granting his request, secretly revealed the arrival of the Ganga and provided a divine fruit as a symbol. He also showed a special method of worship for its consecration. This sacred fruit, a coconut, was filled with Ganga water and became a symbol of purity.

    続きを読む 一部表示
    10 分

बालमोदिनीに寄せられたリスナーの声

カスタマーレビュー:以下のタブを選択することで、他のサイトのレビューをご覧になれます。