エピソード

  • मधुरवचनानि
    2025/06/09

    कस्मिंश्चित् नगरे विजयरामनामकः कश्चन महाधनिकः अत्यन्तं लोभी आसीत् । सम्पत्तेः सङ्ग्रहणं तस्य विकृतः स्वभावः आसीत् । एकदा कश्चन साधुः धनिकस्य गृहसमीपस्थात् उद्यानात् कस्यचित् पक्षिणः मधुरं गानं श्रुत्वा एकं सुवर्णनाणकं दत्त्वा 'अनेन फलानि बीजानि पक्षिणः प्रियखाद्यानि च क्रीत्वा पक्षिणे ददातु' इति उक्तवान् । किन्तु सः लोभी धनिकः मम पक्षिणः गानश्रवणाय शतं सुवर्णनाणकानि ददातु इति कथयति । तदनन्तरं सः साधुः उपयामेकं कृत्वा विजयरामं समीचीनं पाठं पाठयति ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a certain town, there was a wealthy man named Vijayarama, who was extremely greedy. Accumulating wealth was his distorted nature. One day, a sage heard a bird's melodious singing in the garden near Vijayarama's house. He gave a gold coin and said, "With this, buy fruits, seeds, and treats favored by birds and give them to the bird." But the greedy man insisted, "For listening to my bird's singing, pay me a hundred gold coins." Thereafter, the sage crafted a clever plan and taught Vijayarama a valuable lesson.
    41.भीमावतारः

    続きを読む 一部表示
    5 分
  • प्रयत्नो विधेयः प्रयत्नो विधेयः
    2025/06/08

    सुन्दरपुरनाम्नि ग्रामे कस्यचन कृषकस्य पुत्रः अनिलः अलसः युवकः निरुद्योगी सन् आदिनं मित्रैः सह इतस्ततः भ्रमन् आसीत् । कदाचित् सूर्यास्तसमये समीपस्थात् पर्वतात् अवरोहद्भिः आरुह्यमाण: कश्चन वृद्धः लघुना दीपेन सह दृष्टः । आचर्येण यदा अनिलः अपृच्छत् तदा सः वृद्धः शिखरस्थं शिवालयं गन्तुम् इच्छामि इति अवदत् । तदनन्तरं यानि हितवचनानि वृद्धेन उक्तानि तानि वचनानि हासः च अनिलस्य मनसि मुहुर्मुहुः गुञ्जनम् अकुर्वन् । उद्यमस्य महत्त्वमपि अवगतं तेन । अपरेद्युः ब्राह्मे अहनि हलं गृहीत्वा गच्छन्तं पुत्रं दृष्ट्वा पित्रा आनन्दः अनुभूतः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    In a village named Sundarpuri, there was a farmer’s son, Anil, who was a lazy and unemployed youth wandering around aimlessly with his friends. One evening at sunset, he noticed an elderly man descending from a nearby mountain with a small lamp. Out of curiosity, Anil asked him what he was doing. The elderly man replied that he wished to reach the Shiva temple located at the mountaintop. Subsequently, the wise words spoken by the elderly man left a profound impression on Anil. He also came to understand the importance of hard work. The very next day, his father was overjoyed to see Anil waking up early in the morning and heading out with a plow.

    続きを読む 一部表示
    7 分
  • मा कुरु गर्वम्
    2025/06/07

    कदचित् उषास्नाता कलिका स्वस्य अनुपमं सौन्दर्यम् अवलोक्य गर्विता । सहसा तस्याः‌ दृष्टिः समीपस्थं धूलिधूसरितं पाषाणखण्डं दृष्ट्वा 'ईश्वरेण कीदृशीं विकृतिं गमितः त्वम्' इति उक्तवती । पाषाणखण्डः किमपि अनुक्त्वा तूष्णीम् अतिष्ठत् । अग्रिमदिने कश्चन मूर्तिकारः आगत्य तेन पाषाणखण्डेन एकां देवमूर्तिम् अरचयत् । एकस्मिन् मन्दिरे स्थापितवान् च । अग्रिमदिने यदा सा कलिका पुष्पतां गता कश्चन भक्तः तत् पुष्पम् अविचित्य देवविग्रहस्य चरणयोः समर्पितवान् । स्वस्य अधोगतिं दृष्ट्वा कलिकया महान् खेदः अनुभूतः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    One day, a bud admired her unparalleled beauty and became proud. Suddenly, her gaze fell upon a nearby dust-covered piece of stone and she said, 'What a distorted state the Creator has placed you in!' The stone remained silent and unresponsive. The next day, a sculptor arrived and carved that stone into an idol of a deity, which he then placed in a temple. On the following day, the bud, now turned into a flower, was plucked by a devotee and offered at the feet of the deity's idol. Witnessing her own downfall, the bud felt immense regret.

    続きを読む 一部表示
    3 分
  • आदर्शः निरुद्धः
    2025/06/06

    कदाचित् घोरे युद्धे प्रवृत्ते उभयपक्षीयाः अपि बहवः मृताः । सर्वत्र मानवानां शवाः एव दृश्यन्ते स्म । कतिपयैः जनैः सह 'आदर्शः' अपि भीतो भूत्वा पलायनम् आरब्धवान् । दैवदुर्वियोगवशात् पलायमानः सः आदर्शः आतङ्कवादिना गृहीतः । यदा आदर्शः वदति 'मानवतारक्षणं मम धर्मः' ततः आरभ्य सः आतङ्कवादिनाम् अज्ञाते स्थले निरुद्धः वर्तते ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    During a fierce war, countless individuals on both sides perished. Everywhere, only human corpses were visible. Among some individuals, 'Adarsh' too, frightened, began to flee. By a twist of fate, while escaping, Adarsh was captured by terrorists. When Adarsh declared, 'Protecting humanity is my duty,' from that moment onward, he has been confined by the terrorists in an unknown location.

    続きを読む 一部表示
    3 分
  • सत्यवादी चोरः
    2025/06/05

    कदाचित् कश्चन चोरः मनःपरिवर्तनं प्राप्तुं मुनेः समीपं गतवान् । सः मुनेः वचनानुसारं सत्यमेव भाषितुं सङ्कल्पं कृत्वा ततः कदापि मिथ्याभाषणं न कृतवान् । एकदा सः राजकोषतः सुवर्णपेटिकाद्वयमेव चोरयित्वा यदा धावितुम् आरब्धवान् तदा मार्गमध्ये मन्त्री लब्धः । प्रवृत्तं सर्वं ज्ञात्वा सः मन्त्री इतोपि एकां सुवर्णपेटिकाम् अपहृतवान् । जनाः पेटिकात्रयमपि चोरेण अपहृतम् इति चिन्तयन्ति इति मत्वा । किन्तु यदा राजस्थाने चोरः आनीतः दण्डप्रहारे अपि सः पेटिकाद्वयमेव मया चोरितमिति सत्यमेव वदन् आसीत् । तदनन्तरं महाराजेन ज्ञातं यत् तृतीयपेटिकां मन्त्री चोरितवान् इति । सप्तवर्षाणि यावत् मन्त्रिणं कारागारे स्थापयित्वा चोरं मन्त्रिपदे नियोजितवान् राजा ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, a thief, seeking to change his ways, approached a sage. Following the sage's advice, he resolved to always speak the truth and never lied thereafter. One day, he stole two boxes of gold from the royal treasury and when began to flee, he encountered the minister. When the thief was brought before the king, even under punishment, he truthfully confessed that he had stolen only two boxes. Later, the king discovered that the third box had been stolen by the minister. The king imprisoned the minister for seven years and impressed by the thief's honesty, appointed him to the minister's position.

    続きを読む 一部表示
    6 分
  • उड्डयनसमर्थः अश्वः
    2025/06/04

    वयं सर्वे विजयनगरस्य राजानं कृष्णदेवरायं, तस्य परमाप्तमन्त्रिणं तेनालिरामकृष्णं जानीमः एव । तेनालिरामकृष्णः परोपकारी सङ्कटतारकः तीक्ष्णमतिः च आसीत् इति सर्वे जानन्ति स्म । अस्यां स्वारस्यकार्यां कथायां तेनालिरामकृष्णः कथं कञ्चन अश्वपोषकं राज्ञः दण्डनात् रक्षति, कम् उपायं करोति इति पश्यामः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    We all know about the Vijayanagara king, Krishnadevaraya and his trusted minister, Tenali Ramakrishna. Everyone knows that Tenali Ramakrishna was benevolent, a savior in difficult times, and sharp-witted. In this intriguing story, let us see how Tenali Ramakrishna saves a horse caretaker from the king's punishment and what strategy he employs.

    続きを読む 一部表示
    5 分
  • दानस्य महिमा
    2025/06/03

    यदा पुष्करनगरनृपः कदाचित् रुग्णः जातः तदा राजपुरोहितः सूचयति यत् विपुलस्य सुवर्णस्य दानकरणेन राजा स्वस्थः भवितुम् अर्हति इति । तद्वदेव राजा दशकोटिसुवर्णमुद्राणां दानाय व्यवस्थां करोति । किन्तु मन्त्री नगराध्यक्षः च वञ्चनां कृत्वा अल्पम् एव धनराशिं प्रजाभ्यः दत्तवन्तौ । विपुलं दानं कृत्वा अपि यदा नृपः स्वास्थ्यं न प्राप्तवान् तदा सः सुवर्णस्य दानं योग्यरीत्या अभवत् उत न इति ज्ञातुं गुप्तचरान् प्रेषितवान् । गुप्तचरैः सर्वं ज्ञात्वा राजा मन्त्रिप्रभृतीन् सर्वान् कारागारे स्थापितवान् । पुनः राजा दशकोटिसुवर्णमुद्राः प्रजाभ्यः वितीर्य मासाभ्यन्तरे नीरोगः अभवत् ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    When the king of Pushkar city fell ill at some point, the royal priest suggested that the king could recover by donating a large amount of gold. Following this, the king arranged for the donation of ten crore gold coins. However, the minister and the city administrator, through deceit, gave only a small amount to the citizens. Despite the significant donation, the king did not recover, so he sent spies to investigate whether the gold donation had been conducted properly. The spies uncovered everything, and the king imprisoned all those involved, including the minister. Subsequently, the king distributed the ten crore gold coins to the citizens, and within a month, he regained his health.

    続きを読む 一部表示
    3 分
  • सुखस्य मन्त्रः
    2025/06/02

    कदाचित् कश्चन कुक्कुरः दिल्लीतः हरिद्वारं प्रति अधावत् । मार्गे केचन कुक्कुराः भषन्तः एतं कुक्कुरम् अनुसृतवन्तः । एषः कुक्कुरः तैः सह सङ्घर्षम् अकृत्वा हरिद्वारं प्रति अधावत् । यदि सङ्घर्षं कृतवान् स्यात् तर्हि अन्ये कुक्कुराः तस्य महतीं हानिं कृतवन्तः स्युः । तेन समयश्रमयोः महती हानिः अभविष्यत्, अपायः अपि अभविष्यत् । लक्ष्यप्राप्तिमार्गे ये विरोधिनः सन्ति तैः सह सङ्घर्षः न करणीयः अस्माभिः । लक्ष्यप्राप्तिविषये अत्यधिकशक्त्या निष्ठया यत्नाः करणीयाः ।
    (“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)

    Once, a dog ran from Delhi to Haridwar. Along the way, some dogs barked and chased after him. This dog did not engage in conflict with them but continued running towards Haridwar. If he had engaged in conflict, other dogs might have caused him significant harm. It would have resulted in great loss of time and effort, and even danger. On the path to achieving a goal, we must not engage in conflict with those who oppose us. Instead, we must strive with immense determination, dedication, and effort towards achieving our objectives.

    続きを読む 一部表示
    2 分