-
サマリー
あらすじ・解説
कस्यचन साधोः तपस्यायाः ख्यातिः देवलोके प्रसृता । स्वर्गे देवानां मध्ये अपि चर्चा आरब्धा । कथञ्चित् तस्य तपसः भङ्गः करणीयः इति कश्चन देवः पृथिवीं प्रति समागत्य साधोः व्यवहारं सुसूक्ष्मं परीक्षितवान् । उपायं कृत्वा अल्पे एव काले तस्य साधोः तपोभ्रष्टतां सम्पादितवान् । कथम् इति स्वारस्यकारिणीं कथां श्रुत्वा ज्ञास्यामः ।
(“केन्द्रीयसंस्कृतविश्वविद्यालयस्य अष्टादशीयोजनान्तर्गततया एतासां कथानां ध्वनिप्रक्षेपणं क्रियते”)
Once, the fame of a certain sage's penance spread in the heavens. A discussion began among the gods in heaven. To break his penance, one of the gods descended to earth and observed the sage's conduct very carefully. After devising a plan, he managed to cause the sage's penance to be broken in a short time. How this happened, we will learn by hearing the story.